वांछित मन्त्र चुनें

स्वा॒यु॒धं स्वव॑सं सुनी॒थं चतु॑:समुद्रं ध॒रुणं॑ रयी॒णाम् । च॒र्कृत्यं॒ शंस्यं॒ भूरि॑वारम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दा॑: ॥

अंग्रेज़ी लिप्यंतरण

svāyudhaṁ svavasaṁ sunīthaṁ catuḥsamudraṁ dharuṇaṁ rayīṇām | carkṛtyaṁ śaṁsyam bhūrivāram asmabhyaṁ citraṁ vṛṣaṇaṁ rayiṁ dāḥ ||

पद पाठ

सु॒ऽआ॒यु॒धम् । सु॒ऽअव॑सम् । सु॒ऽनी॒थम् । चतुः॑ऽसमुद्रम् । ध॒रुण॑म् । र॒यी॒णाम् । च॒र्कृत्य॑म् । शंस्य॑म् । भूरि॑ऽवारम् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥ १०.४७.२

ऋग्वेद » मण्डल:10» सूक्त:47» मन्त्र:2 | अष्टक:8» अध्याय:1» वर्ग:3» मन्त्र:2 | मण्डल:10» अनुवाक:4» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सु-आयुधम्) शोभन आयु के धारण करानेवाले (सु-अवसम्) सम्यक् रक्षा करनेवाले (सुनीथम्) सुसंचालक-अच्छे नेता (चतुः-समुद्रम्) चार अर्थात् धर्मार्थकाममोक्ष जिससे सिद्ध होते हैं, उस ऐसे (रयीणां धरुणम्) पोषणकारक धनों के धारण करनेवाले (चर्कृत्यम्) पुनः-पुनः सत्करणीय-उपासनीय (शस्यम्) प्रशंसनीय (भूरिवारम्) बहुत वरणीय पदार्थों के दाता परमात्मा को जानते हैं-मानते हैं (अस्मभ्यं चित्रं वृषणं रयिं दाः) पूर्ववत् ॥२॥
भावार्थभाषाः - परमात्मा उत्तम आयु का देनेवाला, उत्तम रक्षक, धर्मार्थकाममोक्ष का साधक, विविध धनों का धारण करनेवाला है, ऐसे बहुत वरणीय पदार्थों के दाता सत्करणीय परमात्मा को जानना और मानना चाहिए, वह हमें निश्चित धन और सुख से संपन्न कर सकता है ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सु-आयुधम्) शोभनायुधारयितारम् (सु-अवसम्) सम्यग्रक्षणकर्तारम् (सुनीथम्) सुसञ्चालकं शोभननेतारम् (चतुःसमुद्रम्) चत्वारः कामाः कमनीयपदार्था धर्मार्थकाममोक्षा यस्मात् सिद्ध्यन्ति तथाभूतम् “कामं समुद्रमाविश” [तै० आ० ३।१०।२] (रयीणां धरुणम्) पोषणकराणां धनानां धारकम् (चर्कृत्यम्) पुनः पुनः सत्करणीयमुपासनीयम् “चर्कृत्यः यो जगदीश्वरः सर्वमनुष्यैः पुनः पुनरुपासनायोग्यः” [ऋग्वेदादिभाष्यभूमिका, दयानन्दः] (शस्यम्) प्रशंसनीयम् (भूरिवारम्) भूरयो वाराः-वरणीया यस्मात् तं बहुवरणीयानां दातारं विद्म जानीम इति (अस्मभ्यं चित्रं वृषणं रयिं दाः) पूर्ववत् ॥२॥